Purusha sukta (पुरुषसूक्तम्) is hymn mentioned in Rigveda 10.90, dedicated to the Purusha, the “Cosmic Being”.

This Sukta is also found in the Shukla Yajurveda Samhita 31.1-16 and Atharva Veda Samhita 19.6

The suktam mentioned in Shukla Yajurveda Samhita has 16 verses, whereas Sukta mentioned in Rigveda, Mudgal Upanishad ( मुद्गलोपनिषद् ) consists of 18 verses. This version also has 6 verses as Uttara-narayana sukhtam in honour of Rishi Narayana.

 

शान्तिपाठः

ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवीः᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

अथ पुरुषसूक्तम् ॥

ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । १

meaning – The Purusha (Universal Being) has Thousand Heads, Thousand Eyes and Thousand Feet, he envelops the World from all sides and yet he sits 10 fingers above it.

पुरु॑ष ए॒वेदꣳ सर्व । यद्भू॒तं यच्च॒ भव्य।
उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति । २

meaning – The Purusha is indeed All this in essence; That which existed in the Past, and that which will exist in the Future, Purusha is the god of the one who lives on Amrit ( devata’s) and the one who lives on food ( humans).

ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाश्च॒ पूरु॑षः ।
पादोऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । ३

The Purusha is Greater than all the Greatness, His One Part has become all these visible World, and His Three Parts includes devlok and all directions.

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पाऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ।
ततो॒ विश्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि । ४

meaning – The Three Parts of the Purusha is High Above, and His One Part becomes the Creation again and again. There in the Creation, He pervades all the Living ( who eats ) and the Non-Living ( who does not eat ) beings.

तस्माद्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः । ५

meaning – From Him (Purusha) was born the Virat (Universe), this purusha is the one from whom this hiranaya garbha was born: This Hiranyana Garbha after being born was manifested, and from him the Earth and various forms ( Devata, Manavas , Triyakas) were created.

यत्पुरु॑षेण ह॒विषा। दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः । ६

With the Purusha as the (Sacrificial) Fire, the Devata completed the Yagna (Sacrifice of creation), from that Yagna the spring season was created from clarified Butter , Summer was (created as) from Fuel, and Autumn was created from the Havis (Sacrificial offering of that Yagna).

स॒प्तास्या॑सन्परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पु॑रुषं प॒शुम् । ७

When Devata’s while doing Yagna bound the Purusha as Yagna animal Pashu

 

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये । ८

तस्माद्य॒ज्ञात्स॑र्व॒हुतः॑ । संभृ॑तं पृषदा॒ज्यम् ।
प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये । ९

तस्माद्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दासि जज्ञिरे॒ तस्मात् । यजु॒स्तस्मा॑दजायत । १०

तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मात् । तस्माज्जा॒ता अ॑जा॒वयः॑ । ११

यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । १२

ब्रा॒ह्म॒णोऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत । १३

च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत । १४

नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रात् । तथा॑ लो॒का अ॑कल्पयन् । १५

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम् । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु॒ पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते । १६
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते । १७

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्त । यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः । १८

 

अथ नारायणसूक्तम् ॥

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । 

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय ।

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚ । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ।

यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ।

रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚ ॥ 

श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्᳚ ।
इ॒ष्णन्निषाण । अ॒मुं म॑ इषाण । सर्वं॑लोकं म इषाण ॥ 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here