Adityahridayam (आदित्यहृदयम्) is a devotional hymn dedicated to Āditya or Sūrya (the Sun God) found in the Yuddha Kānda (6.105) of Vālmīki’s Rāmāyana. It was recited by the sage Agastya to Rāma in the battlefield before fighting with the Rāvaṇa. Agastya teaches Rāma who is fatigued after the long battle, the procedure of worshiping Āditya to defeat the enemy.

Āditya (आदित्य ) means the Sun &. Hṛdayam (हृदयम्) means ‘heart’.

 

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌ । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥1॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌ । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥

पद छेद – ततः युद्धपरिश्रान्तम् समरे चिन्तया स्थितम्‌ । रावणं चाग्रतः दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥1॥
दैवतैः च समागम्य द्रष्टुम् अभ्यागतः रणम्‌ । उपगम्य अब्रवीद् रामम् अगस्त्यः भगवान् तदा ॥2॥

meaning – Beholding Sri Rama, standing absorbed in deep thought on the battle-field, exhausted by the fight and facing Ravana who was duly prepared for the war, the sage Agastya, who had come in the company of gods to witness the encounter (battle) now spoke to Rama as follows:

राम राम महाबाहो श्रृणु गुह्मं सनातनम्‌ । येन सर्वानरीन्‌ वत्स समरे विजयिष्यसे ॥3॥

पद छेदराम राम महाबाहो श्रृणु गुह्मम् सनातनम्‌ । येन सर्वान् अरीन्‌ वत्स समरे विजयिष्यसे ॥3॥

meaning – O Rama’, ‘O Mighty-armed elegant Rama’, listen carefully to the eternal secret by which,  you shall conquer all your enemies on the battlefield.

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌ । जयावहं जपं नित्यमक्षयं परमं शिवम्‌ ॥4॥
सर्वमंगलमागल्यं सर्वपापप्रणाशनम्‌ । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्‌ ॥5॥

पद छेद – आदित्यहृदयम् पुण्यम् सर्वशत्रुविनाशनम्‌ । जयावहम् जपम् नित्यम् अक्षयम् परमम् शिवम्‌ ॥4॥
सर्वमंगलमागल्यं सर्वपापप्रणाशनम्‌ । चिन्ता-शोक-प्रशमनम्-आयुः-वर्धनम्-उत्तमम्‌ ॥5॥

meaning – By Chanting the Aditya-Hrudayam which is very auspicious and highly beneficial, you will be victorious in battle. This will result in destroying all enemies and bring you victory and permanent happiness.

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्‌ । पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्‌ ॥6॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । एष देवासुरगणांल्लोकान्‌ पाति गभस्तिभि: ॥7॥

पद छेद – रश्मिमन्तम् समुद्यन्तम् देवासुर-नमस्कृतम्‌ । पुजयस्व विवस्वन्तम् भास्करम् भुवनेश्वरम्‌ ॥6॥
सर्वदेवात्मकः हि एषः तेजस्वी रश्मिभावन: । एष देवासुर-गणान्-लोकान्‌ पाति गभस्तिभि: ॥7॥

रश्मिमन्तम् रश्मिमत् ( the sun ), the one who is famous by रश्मिवान् name
समुद्यन्तम्  
देवासुर-नमस्कृतम्‌ who is greeted by Dev & Asuras both
पुजयस्व Worship him
विवस्वन्तम् विवस्वत् ( the sun ) , the one who is famous by Vivaswan name
भास्करम् भा: करोति इति, भा:कर ( भा: – to shine )
भुवनेश्वरम्‌ भुवनस्य ईश्वर​: ( lord of universe)
सर्वदेवात्मकः All the devata are his form only
हि एषः तेजस्वी तेज​: अस्ति अस्य इति ( luminous ) the one who has brightness
रश्मिभावन:  

 

एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥8॥
पितरो वसव: साध्या अश्विनौ मरुतो मनु: । वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥9॥
आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान्‌ । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥10॥

पद छेद – एष ब्रह्मा च विष्णुः च शिव: स्कन्द: प्रजापति: । महेन्द्रः धनद: कालः यम: सोमः हि अपाम् पतिः ॥8॥
पितरः वसव: साध्या अश्विनौ मरुतः मनु: । वायुः वहिनः प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥9॥
आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान्‌ । सुवर्ण-सदृशः भानु-र्हिरण्य-रेता दिवाकर: ॥10॥

हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान्‌ । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्‌ ॥11॥
हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥12॥
व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥

पद छेद – हरित् अश्व: सहस्त्र अर्चि: सप्त-सप्ति-र्मरीचिमान्‌ । तिमिरोन्मथन: शम्भुः त्वष्टा मार्तण्डकः अंशुमान्‌ ॥11॥
हिरण्यगर्भ: शिशिरः तपनः अहस्करः रवि: । अग्नि-गर्भः अदिते: पुत्रः शंखः शिशिरनाशन: ॥12॥
व्योमनाथः तमोभेदी ऋक्-यजु: साम-पारग: । घनवृष्टिः अपाम् मित्रः विन्ध्य-वीथी-प्लवंगमः ॥13॥

आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। कविर्विश्वो महातेजा: रक्त: सर्वभवोद्भव: ॥14॥
नक्षत्रग्रहताराणामधिपो विश्वभावन: । तेजसामपि तेजस्वी द्वादशात्मन्‌ नमोऽस्तु ते ॥15॥

पद छेद –आतपी मण्डली मृत्यु: पिगंल: सर्व-तापन:। कविः विश्वः महातेजा: रक्त: सर्व-भव-उद्भव: ॥14॥
नक्षत्र-ग्रह-ताराणाम् अधिपः विश्वभावन: । तेजसाम् अपि तेजस्वी द्वादश-आत्मन्‌ नमः अस्तु ते ॥15॥

नम: पूर्वाय गिरये पश्चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥16॥
जयाय जयभद्राय हर्यश्वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥17॥
नम उग्राय वीराय सारंगाय नमो नम: । नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥

पद छेद  – नम: पूर्वाय गिरये पश्चिमाय-अद्रये नम: । ज्योतिः गणानाम् पतये दिन-अधिपतये नम: ॥16॥
जयाय जयभद्राय हर्यश्वाय नमो नम: । नमो नम: सहस्त्र अंशः आदित्याय नमो नम: ॥17॥
नम उग्राय वीराय सारंगाय नमो नम: । नम: पद्मप्रबोधाय प्रचण्डाय नमः अस्तु ते ॥18॥

ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥19॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥20॥

पद छेद  – ब्रह्म्-ईशान-अच्युत-ईशाय सुराय-आदित्य-वर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥19॥
तम-उघ्नाय हिम-घ्नाय शत्रु-घ्नाय-अमितात्मने । कृतघ्न-घ्नाय देवाय ज्योतिषाम् पतये नम: ॥20॥

तप्तचामीकराभाय हरये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥
नाशयत्येष वै भूतं तमेष सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥22॥

पद छेद – तप्त-चामीकर-आभाय हरये विश्वकर्मणे । नमः तमः अभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥
नाशयति एष वै भूतम् तमः एष सृजति प्रभु: । पायति एष तपति एष वर्षति एष गभस्तिभि: ॥22॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्‌ ॥23॥
देवाश्च क्रतवश्चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥24॥

पद छेद  – एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष च एव अग्निहोत्रम् च फलम् च एव अग्निहोत्रिणाम्‌ ॥23॥
देवाः च क्रतवः च एव क्रतुनाम् फलम् एव च । यानि कृत्यानि लोकेषु सर्वेषु परमम् प्रभु: ॥24॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन्‌ पुरुष: कश्चिन्नावसीदति राघव ॥25॥
पद छेद  – एनम् आपत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन्‌ पुरुष: कश्चिन् न अवसदति राघव ॥25॥

पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम्‌ । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥
अस्मिन्‌ क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम्‌ ॥27॥

पद छेद – पूजयस्व एनम एकाग्रः देवदेवम् जगप्ततिम्‌ । एतत् त्रि-गुणितम् जप्त्वा युद्धेषु विजयिष्यसि ॥26॥
अस्मिन्‌ क्षणे महाबाहो रावणम् त्वम् जहिष्यसि । एवमुक्ता तत अगस्त्यः जगाम स यथागतम्‌ ॥27॥

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्‌ तदा ॥ धारयामास सुप्रीतो राघव प्रयतात्मवान्‌ ॥28॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्‌ । त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान्‌ ॥29॥

पद छेद – एतत् श्रुत्वा महातेजा नष्टशोकः अभवत्‌ तदा ॥ धारयामास सुप्रीतः राघव प्रयत-आत्मवान्‌ ॥28॥
आदित्यं प्रेक्ष्य जप्त्वा इदम् परम् हर्षम् अवाप्तवान्‌ । त्रिः आचम्य शूचिः भूत्वा धनु-आदाय वीर्यवान्‌ ॥29॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम्‌ । सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्‌ ॥30॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥

पद छेद – रावणम् प्रेक्ष्य हृष्ट-आत्मा जयार्थम् समुपागतम्‌ । सर्वयत्नेन महता वृतस्तस्य वधे अभवत्‌ ॥30॥
अथ रवि अवदत् निरीक्ष्य रामम् मुदितमना: परमम् प्रहृष्यमाण: । निशि-चर-पति-संक्षयम् विदित्वा सुरगणम् अध्यगतः वचः त्वर् इति ॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here