Ahimsa Parmo Dharma
Ahimsa (अहिंसा), is an Indian principle of nonviolence which applies to all living beings. Ahimsa says cause no injury by one actions, by words and by thoughts.
“Ahimsa parmo dharma” (अहिंसा परमो धर्मः) means that “Non-violence is highest virtue”
Source of Ahimsa Parmo Dharma
Reference of this phrase in Purana’s and Mahabharata.
- महाभारतम्-आदिपर्व-011 ( Mahabharata, Adi Parva, Ch 11 verse 13)
इदं चोवाच वचनं रुरुमप्रतिमौजसम्।
अहिंसा परमो धर्मः सर्वप्राणभृतां वर।। 13
- महाभारतम्-आरण्यकपर्व-207 ( Mahabharata, Vana Parva, Ch 207 verse 74)
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः।
सत्यं कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ।। 74
References in Skanda Purana and Shiv Purana:
- स्कन्दपुराणम्/खण्डः 3 (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः 36
अहिंसा परमो धर्मो अहिंसा च परं तपः ।।
अहिंसा परमं ज्ञानमहिंसा परमं फलम् ।। 64 ।।
अहिंसा परमो धर्मः सत्यमेतत्त्वयोदितम् ।।
परं तथापि धर्मोऽस्ति शृणुष्वैकाग्रमानसः ।। 69 ।।
- स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २०
नृणां साधारणं धर्मं सर्वेषामादितः शृणु ।।
अहिंसा परमो धर्मस्तत्रादिम उदाहृतः ।। 12।।
- स्कन्दपुराणम्/खण्डः 4 (काशीखण्डः)/अध्यायः 58
अहिंसा परमो धर्म इहोक्तः पूर्वसूरिभिः ।।
तस्मान्न हिंसा कर्तव्या नरैर्नरकभीरुभिः ।। 97।।
- स्कन्दपुराणम्/खण्डः 6 (नागरखण्डः)/अध्यायः 29
अहिंसा परमो धर्मः सर्ववेदे प्रकीर्तितः ॥
ब्राह्मणस्य विशेषेण तस्मात्सर्पवधं त्यज ॥ 218॥
- शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः 5 (युद्धखण्डः)/अध्यायः 5
अहिंसा परमो धर्मः पापमात्मप्रपीडनम् ।।
अपराधीनता मुक्तिस्स्वर्गोऽभिलषिताशनम् ।।18।।