Venkatesa Suprabhatam (श्रीवेङ्कटेशसुप्रभातम्)
Venkatesa Suprabhatam is a collection of Sanskrit hymns or verses recited early morning to awaken the deity, it is recited daily at Tirupati Temple to awaken Lord Veṅkaṭeśawara.
How long is Venkatesa Suprabhatam ?
The whole recitation of the Venkatesa Suprabhatam includes total 70 verses.
- Venkatesa Suprabhatam (29 verses)
- Venkateṣa Stotram ( 11 verses)
- Venkateṣa Prapatti (16 verses)
- Venkateṣa Mangaļāṣāsanam ( 14 verses).
Who has written Venkatesa Suprabhatam?
This Venkatesa Suprabhatam is composed by Prathivadhi Bhayankaram Aṇṇan who was a Vaishnava Acharya.
He composed many hymns, of which the popular are Venkatesa Suprabhatam (श्रीवेङ्कटेशसुप्रभातम्), Venkateṣa Stotram (वेङ्कटेशस्तोत्रम्), Venkateṣa Prapatti (वेङ्कटेशप्रपत्ति ) and Venkateṣa Mangaļāṣāsanam(वेङ्कटेशमङ्गलाशासनम् ) which are recited daily at the Tirumala Venkateswara Temple.
Venkatesa Suprabhatam(श्रीवेङ्कटेशसुप्रभातम्) :
अथ श्री वेङ्कटेश सुप्रभातम्
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् .. १
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु .. २
मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यमूर्ते .
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्रीवेङ्कटेशदयिते तव सुप्रभातम् .. ३
तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले .
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे .. ४
अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां
आकाशसिन्धुकमलानि मनोहराणि .
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ५
पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति .
भाषापतिः पठति वासर शुद्धिमारात्
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ६
ईषत्प्रफुल्लसरसीरुहनारिकेल
पूगद्रुमादिसुमनोहरपालिकानां .
आवाति मन्दमनिलस्सह दिव्यगन्धैः
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ७
उन्मील्य नेत्रयुगमुत्तम पंजरस्थाः
पात्रावशिष्टकदलीफलपायसानि .
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ८
तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तिचरितं तव नारदोऽपि .
भाषासमग्रमसकृत्करचाररम्यं
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ९
भृङ्गावली च मकरन्दरसानुविद्ध
झङ्कारगीत निनदैःसह सेवनाय .
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेषाद्रिशेखरविभो तव सुप्रभातम् .. १०
योषागणेन वरदध्निविमथ्यमाने
घोषालयेषु दधिमन्थनतीव्रघोषाः .
रोषात्कलिं विदधतेककुभश्च कुम्भाः
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ११
पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या .
भेरीनिनादमिव बिभ्रति तीव्रनादं
शेषाद्रिशेखरविभो तव सुप्रभातम् .. १२
श्रीमन्नभीष्ट वरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो .
श्रीदेवतागृहभुजान्तर दिव्य मूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १३
श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिंचसनन्दनाद्याः .
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १४
श्री शेषशैल गरुडाचल वेङ्कटाद्रि
नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् .
आख्याम् त्वदीय वसतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १५
सेवापराः शिवसुरेशकृशानुधर्म
रक्षोऽम्बुनाथ पवमान धनाधिनाथाः .
बद्धांजलि प्रविलसन्निजशीर्ष देशाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १६
घाटीषु ते विहगराज मृगाधिराज-
नागाधिराज गजराज हयाधिराजाः .
स्वस्वाधिकार महिमाधिकमर्थयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १७
सूर्येन्दु भौम बुध वाक्पति काव्य सौरि
स्वर्भानु केतु दिविषत्परिषत्प्रधानाः .
त्वद्दास दास चरमावधि दासदासाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १८
त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः .
कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १९
त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः .
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २०
श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते .
श्रीमन्ननन्त गरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २१
श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे .
श्रीवत्सचिन्ह शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २२
कन्दर्पदर्प हरसुन्दर दिव्यमूर्ते
कान्ताकुचाम्बुरुह कुट्मल लोलदृष्टे .
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २३
मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र .
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २४
एला लवङ्ग घनसार सुगन्धि तीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम् .
धृत्वाऽऽद्य वैदिक शिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् .. २५
भास्वानुदेति विकचानि सरोरुहाणि
संपूरयन्ति निनदैः ककुभो विहङ्गाः .
श्रीवैष्णवास्सततमर्थित मङ्गलास्ते
धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् .. २६
ब्रह्मादयः सुरवरास्समहर्षयस्ते
सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः .
धामान्तिके तव हि मङ्गलवस्तु हस्ताः
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २७
लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसार सागर समुत्तरणैकसेतो .
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २८
इत्थं वृषाचलपतेरिह सुप्रभातम्
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः .
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते .. २९
इति वेङ्कटेश सुप्रभातम्
॥ अथ वेङ्कटेशस्तोत्रम् ॥
कमलाकुचचूचुककुङ्कुमतो
नियतारुणितातुलनीलतनो ।
कमलायतलोचन लोकपते
विजयी भव वेङ्कटशैलपते ॥ १॥
सचतुर्मुखषण्मुखपञ्चमुख-
प्रमुखाखिलदैवतमौलिमणे ।
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते ॥ २॥
अतिवेलतया तव दुर्विषहैः
अनुवेलकृतैरपराधशतैः ।
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे ॥ ३॥
अधिवेङ्कटशैलमुदारमते
जनताभिमताधिकदानरतात् ।
परदेवतया गदितान्निगमैः
कमलादयितान्न परं कलये ॥ ४॥
कलवेणुरवावशगोपवधू
शतकोटिवृतात्स्मरकोटिसमात् ।
प्रतिवल्लविकाभिमतात्सुखदात्
वसुदेवसुतान्न परं कलये ॥ ५॥
अभिरामगुणाकर दाशरथे
जगदेकधनुर्धर धीरमते ।
रघुनायक राम रमेश विभो
वरदो भव देव दयाजलधे ॥ ६॥
अवनीतनयाकमनीयकरं
रजनीकरचारुमुखाम्बुरुहम् ।
रजनीचरराजतमोमिहिरं
महनीयमहं रघुराममये ॥ ७॥
सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुकायममोघशरम् ।
अपहाय रघूद्वहमन्यमहं
न कथञ्चन कञ्चन जातु भजे ॥ ८॥
विना वेङ्कटेशं नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ ९॥
अहं दूरतस्ते पदाम्भोजयुग्म-
प्रणामेच्छयाऽऽगत्य सेवां करोमि ।
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥ १०॥
अज्ञानिना मया दोषान्
अशेषान्विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं
शेषशैलशिखामणे ॥ ११॥
॥ इति वेङ्कटेशस्तोत्रम् ॥
॥ अथ वेङ्कटेशप्रपत्ति ॥
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥
श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।
स्वामिन् सुशील सुलभाश्रितपारिजात
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ २॥
आनूपुरार्पितसुजातसुगन्धिपुष्प
सौरभ्यसौरभकरौ समसन्निवेशौ ।
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ३॥
सद्योविकासिसमुदित्वरसान्द्रराग-
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ४॥
रेखामयध्वजसुधाकलशातपत्र
वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः ।
भव्यैरलङ्कृततलौ परतत्व चिन्हैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ५॥
ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ ।
उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ६॥
सप्रेमभीति कमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ ।
कान्ताववाङ्ग्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ७॥
लक्ष्मीमहीतदनुरूपनिजानुभाव-
नीलादिदिव्यमहिषीकरपल्लवानाम् ।
आरुण्यसङ्क्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ८॥
नित्यान्नमद्विधिशिवादिकिरीटकोटि-
प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः ।
नीराजनाविधिमुदारमुपादधानौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ९॥
विष्णोः पदे परम इत्युतिदप्रशंसौ
यौ मध्व उत्स इति भोग्यतयाऽप्युपात्तौ ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १०॥
पार्थाय तत्सदृशसारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ११॥
मन्मूर्ध्नि कालियफणे विकटाटवीषु
श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् ।
चित्तेऽप्यनन्यमनसां सममाहितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १२॥
अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्रिशिखराभरणायमानौ ।
आनन्दिताखिलमनोनयनौ तवैतौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १३॥
प्रायः प्रपन्नजनता प्रथमावगाह्यौ
मातुस्स्तनाविव शिशोरमृतायमानौ ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १४॥
सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन
संसारतारकदयार्द्र दृगञ्चलेन ।
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १५॥
श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ १६॥
॥ इति वेङ्कटेशप्रपत्ति ॥
॥ अथ वेङ्कटेशमङ्गलाशासनम् ॥
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनां
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १॥
लक्ष्मी सविभ्रमालोकसुभ्रूविभ्रमचक्षुषे
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २॥
श्रीवेङ्कटाद्रिशृङ्गाङ्ग्रमङ्गलाभरणाङ्घ्रये
मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३॥
सर्वावयवसौन्दर्यसम्पदा सर्वचेतसां
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४॥
नित्याय निरवद्याय सत्यानन्दचिदात्मने
सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ५॥
स्वतस्सर्वविदे सर्व शक्तये सर्वशेषिणे
सुलभाय सुशीलाया वेङ्कटेशाय मङ्गलम् ॥ ६॥
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ ७॥
आकालतत्त्वमश्रान्तं आत्मनामनुपश्यतां
अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८॥
प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना
कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ९॥
दयामृत तरङ्गिण्यास्तरङ्गैरिव शीतलैः
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १०॥
स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११॥
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२॥
श्रीमत्सुन्दरजामातृमुनिमानसवासिने
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ १३॥
मङ्गलाशासनपरैर्मदाचार्य पुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४॥
॥ इति वेङ्कटेशमङ्गलाशासनम् ॥